Close

मनुस्मृति-श्रीमद्रामायण-महाभारतानां वर्णितमानवमूल्यानि।

No of Downloads : 673 No of Views : [post-views] Download PDF

Dr. Sk. Nagamastanvali

Guest faculty

Dept of puranetihasa

National sanskrit university

Tirupati

Cell :9492606567

मूले भवं मूल्यमिति। मूलशब्दः “मूल रोहणे”1 इति धातोः निष्पन्नः। मनोः अपत्यानि मानवाः “तस्थापत्यम्”2 इति अण्प्रत्यये मानवः इति रूपं मानवस्य इमे धर्माः मानवीयाः इति विग्रहे “वृद्धाच्छः”3 इति छप्रत्ययः। प्रत्ययस्य ईयादेशे “मानवीय” इति रूपं भवति। मानवीयानि तानि मूल्यानि मानवीयमूल्यानि वेदोक्तानि एव पुराणेषु इतिहासेषु स्मृतिषु च अनूदितानि। यत्र श्रुतिस्मृत्योः विरोधः तत्र श्रुतिः प्रमाणम्। यत्र अविरोधः स्मृतिरेव प्रमाणम्। पुराणान्यपि स्मृतयः एव, अतः स्मृतिरूपेषु रामायणमहाभारतमनुस्मृतिषु यानि मानवीयमूल्यानि निरूपितानि तानि आधुनिककालोपयोगीनि इति निरूपणाय अयं शोधपत्रस्य विषयः।