ब्रह्मचर्याश्रमसामान्यविषयाः

Dr. Bandi Chaitanya Kumar

Contract lecturer in Sankrit

S.G.V Oriental College.

Ph. No.  – 9676113384

ब्रह्मचर्याश्रमे उपनयनं तदाश्रमप्रवेशहेतुस्त्रैवर्णिकानां भेदकं च भवति। ब्राह्मणस्य उपनयनकालस्तु गर्भाष्टमे वर्षे भवति। सप्तमवर्षसमाप्तेरनन्तरमष्टमे वर्षे प्रथममासद्वयप्रयत्नः कालः उपनयनयोग्य इत्यर्थः। प्रायशस्सप्तमे वर्षे एव जननादारभ्य ब्राह्मणस्योपनयनकाल:। यो ब्रह्मवर्चसकामस्योपनयनकालमङ्गीकृतवान्।1 उपनयनकालावधिरपि तत्तद् वर्णानां निश्चितो मनुना। षोडशवर्षानन्तरं ब्राह्मणो गायत्रीमन्त्रजपं कर्तुमनह भवति। एवं द्वाविंशतिवर्षाणामनन्तरं क्षत्रियस्य, चतुर्विंशतिवर्षाणामनन्तरं वैश्यस्य गायत्रीजपाधिकारः लुप्तो भवति। अतस्स्व स्व कुलविहितोपनयनकालादारभ्य अनर्हताप्राप्तिपर्यन्तो यः कालः स्वकुलस्य विद्यते आपद्धर्मेणापि तस्मिन्नेव काले उपनयनकर्म विधीयते। एवमतीते उपनयनकाले ये असंस्कृतास्त्रैवर्णिकास्तैस्सह विवाहादिसम्बन्धो न कार्यः।


Posted

in

by

Tags:

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *